महालक्ष्मी चतुर्विंशति नामावलिः
श्रीवेङ्कटेशमहिषी महलक्ष्मी प्रीत्यर्थं
श्रीवेङ्कटेशमहिषीमहालक्ष्मी चतुर्विंशति नामभिः
श्रीवेङ्ककटेशमहिषी महालक्ष्म्यर्चनं करिष्ये ॥
अस्य श्रीमहलक्ष्मी चतुर्विंशतिनाम मन्त्रस्य ब्रह्मा ऋषिः ।
अनुष्टुप् छन्दः । श्रीमहालक्ष्मीर्देवता ।
श्रीवेङ्कटेशमहिषीमहालक्ष्मीप्रीत्यर्धे जपे विनियोगः ।
ध्यानम्
ईशानां जगतोस्य वेङ्कटपतेर्विष्णोः परां प्रेयसीं
तद्वक्षस्थलनित्यवासरसिकां तत्क्षान्तिसंवर्धिनीम् ।
पद्मालङ्कृतपाणिपल्लवयुगां पद्मासनस्थां श्रियं
वात्सल्यादिगुणोज्वलां भगवतीं वन्दे जगन्मातरम् ॥
ॐ श्रियै नमः ।
ॐ लोकधात्र्यै नमः ।
ॐ ब्रह्ममात्रे नमः ।
ॐ पद्मनेत्रायै नमः ।
ॐ पद्ममुख्यै नमः ।
ॐ प्रसन्नमुखपद्मायै नमः ।
ॐ पद्मकान्त्यै नमः ।
ॐ बिल्ववनस्थायै नमः ।
ॐ विष्णुपत्न्यै नमः ।
ॐ विचित्रक्षौमधारिण्यै नमः ।
ॐ पृथुश्रोण्यै नमः ।
ॐ पक्वबिल्वफलापीनतुङ्गस्थन्यै नमः ।
ॐ सुरक्तपद्मपत्राभकरपादतलायै नमः ।
ॐ शुभायै नमः ।
ॐ सरत्नाङ्गदकेयूरकाङ्चीनूपुरशोभितायै नमः ।
ॐ यक्षकर्दमसंलिप्तसर्वाङ्गायै नमः ।
ॐ कटकोज्ज्वलायै नमः ।
ॐ माङ्गल्याभरणैश्चित्रैर्मुक्ताहारैर्विभूषितायै नमः ।
ॐ ताटङ्कैरवतंसैश्च शोभमानमुखाम्बुजायै नमः ।
ॐ पद्महस्तायै नमः ।
ॐ हरिवल्लभायै नमः ।
ॐ ऋग्यजुस्सामरूपायै नमः ।
ॐ विद्यायै नमः ।
ॐ अब्धिजायै नमः ॥
एवं चतुर्विंशतिनामभिः बिल्वपत्रैर्लक्ष्म्यर्चनं कुर्यात् ।
सर्वाभीष्टसिद्धिर्भवति ॥
इति महालक्ष्मी चतुर्विंशति नामावलिः