|

श्री एकादशमुखी हनुमान कवच

  • Ekadash Mukhi Hanuman Kavach

॥ अथ एकादशमुखिहनुमत्कवचम् ॥

॥ लोपामुद्रोवाच ॥
कुम्भोद्भव दयासिन्धो कृतं हनुमतः प्रभोः ।
यन्त्र मन्त्रादिकं सर्वं त्वन्मुखोदीरितं मया ॥

दया करुमपि प्राणनाथ वेदितुमुत्सहे ।
कवचं वायु पुत्रस्य एकादश मुखात्मनः ॥

इत्येवं वचनं श्रुत्वा प्रियायाः प्रश्रयान्वितम् ।
वक्तुं प्रचक्रमे तत्र लोपा मुद्रां प्रति प्रभुः ॥

॥ अगस्त्य उवाचः ॥
नमस्कृत्वा रामदूतं हनुमन्तं महामतिम् ।
ब्रह्म प्रोक्तं तु कवचं शृणु सुन्दरि सादरात् ॥

सनन्दनाय च महच्चतुरानन भाषितम् ।
कवचं कामदं दिव्यं रक्षः कुल निबर्हणम् ॥

सर्व सम्पत्तप्रदं पुण्यं मत्यनां मधुर स्वरे ॥

॥ विनियोग ॥
ॐ अस्य श्री एकादश मुखि हनुमत्कवच मन्त्रस्य सनन्दन ऋषिः, प्रसन्नात्मा एकादशमुखि श्री हनुमान देवता, अनुष्टुप छन्दः, वायु सुत बीजम्।
मम सकल कार्यार्थे प्रमुखतः मम प्राण शक्तिर्वर्द्धनार्थे जपे वा पाठे विनियोगः ॥

॥ अथ हृदयादिन्यासः ॥
ॐ स्फ्रें हृदयाय नमः ॥
ॐ स्फ्रें शिर से स्वाहा ॥
ॐ स्फें शिखायै वौषट् ॥
ॐ स्फ्रें कवचाय हुम् ॥
ॐ स्फ्रें नेत्र त्रयाय वौषट् ॥
ॐ स्फ्रें कवचाय हुम् ॥

॥ अथ करन्यासः ॥
ॐ स्फें बीज शक्तिधृक पातु शिरो में पवनात्मजा अंगुष्ठाभ्यां नमः ॥

ॐ क्रौं बीजात्मानथनयोः पातु मां वानरेश्वरः तर्जनीभ्यां नमः ॥

ॐ क्षं बीज रुप कर्णो मे सीता शोक निवाशनः मध्यमाभ्यां नमः ॥

ॐ ग्लौं बीज वाच्यो नासां में लक्ष्मण प्राण प्रदायकः अनामिकाभ्यां नमः ॥

ॐ व बीजार्थश्च कण्ठं मे अक्षय क्षय कारकः कनिष्ठिकाभ्यां नमः॥

ॐ रां बीज वाच्यो हृदयं पातु में कपि नायकः करतलकर पृष्ठाभ्यां नमः॥

॥ कवचारम्भः ॥
ॐ व् बीजं कीर्तितः पातु बाहु में चाञ्जनी सुतः ।
ॐ ह्रां बीजं राक्षसेन्द्रस्य दर्पहा पातु चोर दम् ॥

सौमं बीज मयी मध्यं में पातु लङ्का विदाहकः ।
ह्रीं बीज धरो गुह्यं में पातु देवेंद्र वन्दितः ॥

रं बीजात्मा सदा पातु चोरु में वार्घिलंघनः ।
सुग्रीव सचिवः पातु जानुनी में मनोजवः ॥

आपाद् मस्तकं पातु रामदूतो महाबलः ।
पूर्वे वानर वक्त्रोमां चाग्नेया क्षत्रियान्त कृत् ॥

दक्षिणे नारसिंहस्तु नैऋत्यां गणनायकः ॥

वारुण्यां दिशि मामव्यात्खग वक्त्रो हरीश्वरः ॥

वायव्यां भैरव मुखः कौवेर्यां पातु में सदा ।
क्रोड़ास्यः पातु मां नित्य मीसान्यां रुद्र रुप धृक ॥

रामस्तु पातु मां नित्यं सौम्य रुपी महाभुजः ।
एकादश मुखस्यैतद् दिव्यं वै कीर्तितं मया ॥

रक्षोध्नं कामदं सौम्यं सर्व सम्पद् विधायकम् ।
पुत्रदं धनदं चौग्रं शत्रु सम्पतिमर्द्दनम् ॥

स्वर्गाऽपवर्गदं दिव्यं चिन्तितार्थप्रदं शुभम् ।
एतत् कवचम् ज्ञात्वा मन्त्र सिद्धिर्न जायते ॥

॥ अथ फलश्रुतिः ॥
चत्वारिंश सहस्त्राणि पठेच्छुद्धात्मना नरः ।
एक वारं पठेनित्यं कवच सिद्धिदं महत् ॥

द्विवारं वा त्रिवारं वा पठेदायुष्माप्नु यात् ।
क्रमादेकादशादेवमावर्तन कृतात् सुधीः ॥

वर्षान्ते दर्शनं साक्षाल्लभते नाऽत्र संशयः ।
यं यं चिन्तयते कामं तं तं प्राप्नोति पुरुषः ॥

ब्रह्मोदीप्तिमेताद्धि तवाऽग्रे कथितं महत् ॥

इत्येव मुक्तत्वा कवचं महर्षिस्तूष्णी वभूवेन्दुमुखी निरीक्ष्य ।
संहृष्ट चिताऽपि तदा तदीय पादौ ननामाऽति मुदास्व भर्तृ: ॥

॥ इति श्री एकादश हनुमान मुखी कवच सम्पूर्णं ॥

मिलते-जुलते भजन...