|

द्वादश आदित्य ध्यान श्लोकाः

  • Dwadash Aditya Dhyan Shloka
  1. धाता
    धाता कृतस्थली हेतिर्वासुकी रथकृन्मुने ।
    पुलस्त्यस्तुम्बुरुरिति मधुमासं नयन्त्यमी ॥
    धाता शुभस्य मे दाता भूयो भूयोऽपि भूयसः ।
    रश्मिजालसमाश्लिष्टः तमस्तोमविनाशनः ॥
  2. अर्यम्
    अर्यमा पुलहोऽथौजाः प्रहेति पुञ्जिकस्थली ।
    नारदः कच्छनीरश्च नयन्त्येते स्म माधवम् ॥
    मेरुशृङ्गान्तरचरः कमलाकरबान्धवः ।
    अर्यमा तु सदा भूत्यै भूयस्यै प्रणतस्य मे ॥
  3. मित्रः
    मित्रोऽत्रिः पौरुषेयोऽथ तक्षको मेनका हहः ।
    रथस्वन इति ह्येते शुक्रमासं नयन्त्यमी ॥
    निशानिवारणपटुः उदयाद्रिकृताश्रयः ।
    मित्रोऽस्तु मम मोदाय तमस्तोमविनाशनः ॥
  4. वरुणः
    वसिष्ठो ह्यरुणो रम्भा सहजन्यस्तथा हुहुः ।
    शुक्रश्चित्रस्वनश्चैव शुचिमासं नयन्त्यमी ॥
    सूर्यस्यन्दनमारूढ अर्चिर्माली प्रतापवान् ।
    कालभूतः कामरूपो ह्यरुणः सेव्यते मया ॥
  5. इन्द्रः
    इन्द्रो विश्वावसुः श्रोता एलापत्रस्तथाऽङ्गिराः ।
    प्रम्लोचा राक्षसोवर्यो नभोमासं नयन्त्यमी ॥
    सहस्ररश्मिसंवीतं इन्द्रं वरदमाश्रये ।
    शिरसा प्रणमाम्यद्य श्रेयो वृद्धिप्रदायकम् ॥
  6. विवस्वान्
    विवस्वानुग्रसेनश्च व्याघ्र आसारणो भृगुः ।
    अनुम्लोचाः शङ्खपालो नभस्याख्यं नयन्त्यमी ॥
    जगन्निर्माणकर्तारं सर्वदिग्व्याप्ततेजसम् ।
    नभोग्रहमहादीपं विवस्वन्तं नमाम्यहम् ॥
  7. त्वष्टा
    त्वष्टा ऋचीकतनयः कम्बलाख्यस्तिलोत्तमा ।
    ब्रह्मापेतोऽथ शतजित् धृतराष्ट्र इषम्भरा ॥
    त्वष्टा शुभाय मे भूयात् शिष्टावलिनिषेवितः ।
    नानाशिल्पकरो नानाधातुरूपः प्रभाकरः ।
  8. विष्णुः
    विष्णुरश्वतरो रम्भा सूर्यवर्चाश्च सत्यजित् ।
    विश्वामित्रो मखापेत ऊर्जमासं नयन्त्यमी ॥
    भानुमण्डलमध्यस्थं वेदत्रयनिषेवितम् ।
    गायत्रीप्रतिपाद्यं तं विष्णुं भक्त्या नमाम्यहम् ॥
  9. अंशुमान्
    अथांशुः कश्यपस्तार्क्ष्य ऋतसेनस्तथोर्वशी ।
    विद्युच्छत्रुर्महाशङ्खः सहोमासं नयन्त्यमी ॥
    सदा विद्रावणरतो जगन्मङ्गलदीपकः ।
    मुनीन्द्रनिवहस्तुत्यो भूतिदोऽंशुर्भवेन्मम ॥
  10. भगः
    भगः स्फूर्जोऽरिष्टनेमिः ऊर्ण आयुश्च पञ्चमः ।
    कर्कोटकः पूर्वचित्तिः पौषमासं नयन्त्यमी ॥
    तिथि मास ऋतूनां च वत्सराऽयनयोरपि ।
    घटिकानां च यः कर्ता भगो भाग्यप्रदोऽस्तु मे ॥
  11. पूष
    पूषा धनञ्जयो वातः सुषेणः सुरुचिस्तथा ।
    घृताची गौतमश्चेति तपोमासं नयन्त्यमी ।
    पूषा तोषाय मे भूयात् सर्वपापाऽपनोदनात् ।
    सहस्रकरसंवीतः समस्ताशान्तरान्तरः ॥
  12. पर्जन्यः
    क्रतुर्वार्चा भरद्वाजः पर्जन्यः सेनजित् तथा ।
    विश्वश्चैरावतश्चैव तपस्याख्यं नयन्त्यमी ॥
    प्रपञ्चं प्रतपन् भूयो वृष्टिभिर्मादयन् पुनः ।
    जगदानन्दजनकः पर्जन्यः पूज्यते मया ॥
    ध्यायेस्सदा सवितृमण्डलमध्यवर्ती
    नारायणस्सरसिजासन सन्निविष्टः।
    केयूरवान् मकरकुण्डलवान् किरीटी
    हारी हिरण्मयवपुः धृतशङ्खचक्रः ॥

मिलते-जुलते भजन...