पितृ स्तोत्रम
अर्चितानाममूर्तानां पितॄणां दीप्ततेजसाम् ।
नमस्यामि सदा तेषां ध्यानिनां दिव्यचक्षुषाम् ॥ १ ॥
इन्द्रादीनां च नेतारो दक्षमारीचयोस्तथा ।
सप्तर्षीणां तथान्येषां तान्नमस्यामि कामदान् ॥ २ ॥
मन्वादीनां च नेतारः सूर्याचन्द्रमसोस्तथा ।
तान्नमस्याम्यहं सर्वान् पितृनप्युदधावपि ॥ ३ ॥
नक्षत्राणां ग्रहाणां च वाय्वग्न्योर्नभसस्तथा ।
द्यावापृथिव्योश्च तथा नमस्यामि कृताञ्जलिः ॥ ४ ॥
देवर्षीणां जनितॄंश्च सर्वलोकनमस्कृतान् ।
अक्षय्यस्य सदा दातॄन नमस्येहं कृताञ्जलिः ॥ ५ ॥
प्रजापतेः कश्यपाय सोमाय वरुणाय च ।
योगेश्वरेभ्यश्च सदा नमस्यामि कृताञ्जलिः ॥ ६ ॥
नमो गणेभ्यः सप्तभ्यस्तथा लोकेषु सप्तसु ।
स्वयम्भुवे नमस्यामि ब्रह्मणे योगचक्षुषे ॥ ७ ॥
सोमाधारान् पितृगणान् योगमूर्तिधरांस्तथा ।
नमस्यामि तथा सोमं पितरं जगतामहम् ॥ ८ ॥
अग्निरूपांस्तथैवान्यान् नमस्यामि पितॄनहम् ।
अग्नीषोममयं विश्वं यत एतदशेषतः ॥ ९ ॥
ये तु तेजसि ये चैते सोमसूर्याग्निमूर्तयः ।
जगत्स्वरूपिणश्चैव तथा ब्रह्मस्वरूपिणः ॥ १० ॥
तेभ्योऽखिलेभ्यो योगिभ्यः पितृभ्यो यतमानसः ।
नमो नमो नमस्ते मे प्रसीदन्तु स्वधाभुजः ॥ ११ ॥
हिंदी में अर्थ (भावार्थ)
जो पितर दिव्य रूप वाले, निराकार, और परम तेजस्वी हैं; जो ध्यान मग्न रहते हैं और जिनके पास दिव्य दृष्टि है, मैं उन्हें सदा प्रणाम करता हूँ। जो देवराज इन्द्र, प्रजापति दक्ष, महर्षि मरीचि और सप्तर्षियों के भी मार्गदर्शक व फलदाता हैं, उन्हें मेरा नमन है। जो सूर्य, चन्द्रमा, जल, पृथ्वी, अग्नि और आकाश के रूपों में इस सम्पूर्ण जगत में व्याप्त हैं, उन सभी योगीश्वर और स्वधाभोज (श्राद्ध का अन्न ग्रहण करने वाले) पितरों को मैं एकाग्रचित्त होकर बारम्बार प्रणाम करता हूँ, वे मुझ पर प्रसन्न हों और अपना आशीर्वाद प्रदान करें।

